|
|
 |
 |
|
|
१३ अनुशासनपर्व.jpg)
॥ श्रीः ॥
13.162. अध्यायः 162
अथ दानधर्मपर्व ॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Topics
भीष्मेण युधिष्ठिरंप्रति ज्येष्ठकनिष्ठयोः परस्परस्मिन्वर्तनप्रकारादिकथनम्॥ 1 ॥
Mahabharata - Anushaasana Parva - Chapter Text
युधिष्ठिर उवाच।
कथं ज्येष्ठः कनिष्ठेषु वर्तेत भरतर्षभ।
कनिष्ठाश्च यथा ज्येष्ठे वर्तेरंस्तद्ब्रवीहि मे॥ 13-162-1(87794)
भीष्म उवाच। 13-162-2x(7366)
ज्येष्ठवत्तात वर्तस्व ज्येष्ठोसि हि तथा भवान्।
गुरोर्गरीयसी वृत्तिर्या च शिष्यस्य भारत॥ 13-162-2(87795)
न गुरावकृतप्रज्ञे शक्यं शिष्येण वर्तितुम्।
गुरौ हि सदृशी वृत्तिर्यथा शिष्यस्य भारत॥ 13-162-3(87796)
अन्धः स्यादन्धवेलायां जडः स्यादपि वा बुधः।
परिहारेण तद्ब्रूयाद्यस्तेषां स्याद्व्यतिक्रमः॥ 13-162-4(87797)
प्रत्यक्षं भिन्नहृदया भेदयेयुर्यथाऽहिताः।
`श्रियाऽभितप्तास्तद्भेदान्नभिन्नाः स्युः समाहिताः'
श्रियाऽभितप्ताः कौन्तेय भेदकामास्तथाऽरयः॥ 13-162-5(87798)
ज्येष्ठः कुलं वर्धयति विनाशयति वा पुनः।
हन्ति सर्वमपि ज्येष्ठः प्रायो दुर्विनयादिह॥ 13-162-6(87799)
अथ यो विनिकुर्वीत ज्येष्ठो भ्राता यवीयसः।
अज्येष्ठः स्यादभागश्च नियम्यो राजभिश्च सः॥ 13-162-7(87800)
निकृती हि नरो लोकान्पापान्गच्छत्यसंशयम्।
विफलं तस्य पुत्रत्वं मोघं जनयितुः स्मृतम्॥ 13-162-8(87801)
पित्रोरनर्थायक कुले जायते पापपूरुषः।
अकीर्तिं जनयत्येव कीर्तिमन्तर्दधाति च॥ 13-162-9(87802)
सर्वे चापि विकर्मस्था भागं नार्हन्ति सोदराः।
ज्येष्ठोऽपि दुर्विनीतस्तु कनिष्ठस्तु विशेषतः।
नाप्रदाय कनिष्ठेभ्यो ज्येष्ठः कुर्वीत वेतनम्॥ 13-162-10(87803)
अनुजस्य पितुर्दायो जङ्घाश्रमफलोऽध्वगः।
स्वयमीहेत लब्धं तु नाकामो दातुमर्हति॥ 13-162-11(87804)
भ्रातॄणामविभक्तानामुत्थानमपि चेत्सह।
न पुत्रभागं विषमं पिता दद्यात्कदाचन। 13-162-12(87805)
न ज्येष्ठो वाऽवमन्येत दुष्कृतः सुकृतोऽपि वा।
गुरूणामपराधो हि शक्यः क्षन्तव्य एव च॥ 13-162-13(87806)
यदि स्त्री यद्यवरज श्रेयः पश्येत्तदाचरेत्।
धर्मार्थः श्रेय इत्याहुस्त्रयो ज्ञाता विधायकाः॥ 13-162-14(87807)
दशाचार्यानुपाध्याय उपाध्यायान्पिता दश।
दश चैव पितॄन्माता सर्वां वा पृथिवीमपि।
गौरवेणाभिभवति नास्ति मातृसमो गुरुः॥ 13-162-15(87808)
माता गरीयसी यच्च तेनैतां मन्यते गुरुम्।
ज्येष्ठो भ्राता पितृसमो मृते पितरि भारत॥ 13-162-16(87809)
स ह्येषां वृत्तिदाता स्यात्स चैतान्प्रतिपालयेत्।
कनिष्ठास्तं नमस्येरन्सर्वे छन्दानुवर्तिनः॥ 13-162-17(87810)
तमेव चोपजीवेरन्यथैव पितरं तथा।
शरीरमेतौ सृजतः पिता मता च भारत॥ 13-162-18(87811)
आचार्यशिष्टा या जातिः सा सत्या साऽजरामरा।
ज्येष्ठा मातृसमा चापि भगिनी भरतर्षभ। 13-162-19(87812)
भ्रातुर्भार्या च तद्वत्स्याद्यस्या बाल्ये स्तनं पिबेत्॥ ॥ 13-162-20(87813)
इति श्रीमन्महाभारते अनुशासनपर्वणि दानधर्मपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः॥
Mahabharata - Anushaasana Parva - Chapter Footnotes
7-162-2 या च शिष्यस्य गुरौ वृत्तिस्तां वर्तस्व॥ 7-162-4 तेषां गुरूणाम्॥ 7-162-7 यवीयसः कनिष्ठान्॥ 7-162-8 विदुलस्येव तत्पुष्पं मोघमिति झ.पाठः॥ 7-162-10 ज्येष्ठः कुर्वीत यौतकमिति झ.पाठः॥ 7-162-11 जङ्घाश्रम एव फलं धनं यस्य। अध्वगः प्रवासी। अनुपघ्नन्पितुर्दायं इति झ.पाठः॥ 7-162-12 उत्थानं भोजनादौ विभागे वा॥ 7-162-14 यदि स्त्री यदि वा कनिष्ठो दुष्कृतस्तथापि तस्य श्रेय आचरेत्॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|